---
title: "Bhagavad Gita 3.39 — Karma Yoga"
author: "Rantideb Howlader"
date: "2026-06-11T13:58:18.627Z"
canonical_url: "https://www.ranti.dev/gita/3/39"
license: "CC-BY-4.0"
---

# Bhagavad Gita 3.39
> Chapter 3 — Karma Yoga (Karm Yog), Verse 39.

## Sanskrit
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा।

कामरूपेण कौन्तेय दुष्पूरेणानलेन च।।3.39।।
 

## Transliteration
āvṛitaṁ jñānam etena jñānino nitya-vairiṇā
kāma-rūpeṇa kaunteya duṣhpūreṇānalena cha


## Word Meanings
āvṛitam—covered; jñānam—knowledge; etena—by this; jñāninaḥ—of the wise; nitya-vairiṇā—by the perpetual enemy; kāma-rūpeṇa—in the form of desires; kaunteya—Arjun the son of Kunti; duṣhpūreṇa—insatiable; analena—like fire; cha—and


## Translations
### Swami Ramsukhdas (hindi)
।।3.39।। और हे कुन्तीनन्दन ! इस अग्निके समान कभी तृप्त न होनेवाले और विवेकियोंके नित्य वैरी इस कामके द्वारा मनुष्यका विवेक ढका हुआ है। 
### Swami Tejomayananda (hindi)
।।3.39।। हे कौन्तेय ! अग्नि के समान जिसको तृप्त करना कठिन है ऐसे कामरूप,  ज्ञानी के इस नित्य शत्रु द्वारा ज्ञान आवृत है।।
 
### Swami Adidevananda (english)
The knowledge of the intelligent self is enveloped by this constant enemy, O Arjuna, which is of the nature of desire and is difficult to gratify and insatiable.
### Swami Gambirananda (english)
O son of Kunti, knowledge is covered by this constant enemy of the wise, in the form of desire, which is an insatiable fire.
### Swami Sivananda (english)
O Arjuna, wisdom is enveloped by this constant enemy of the wise, in the form of desire, which is insatiable like fire.
### Dr. S. Sankaranarayan (english)
O son of Kunti! The knowledge of the wise is concealed by this eternal foe, which appears desirable yet is insatiable like fire.
### Shri Purohit Swami (english)
It is the wise man's constant enemy; it tarnishes the face of wisdom, being as insatiable as a flame of fire.
### স্বামী ব্রহ্মানন্দ (মূল শ্লোক) (bengali)
আবৃতং জ্ঞানমেতেন জ্ঞানিনো নিত্যবৈরিণা৷
কামরূপেণ কৌন্তেয দুষ্পূরেণানলেন চ৷৷3.39৷৷
### সব্যসাচী বৈরাগী (অনুবাদ) (bengali)
কামরূপ চির শত্রুর দ্বারা জ্ঞানীর জ্ঞান আবৃত থাকে, হে কৌন্তেয়! এই কাম অতৃপ্ত আগুনের মতো।

## Commentaries
### Swami Ramsukhdas (hindi)
 3.39।। व्याख्या--'एतेन'-- सैंतीसवें श्लोकमें भगवान्ने पाप करवानेमें मुख्य कारण 'काम' अर्थात् कामनाको बताया था। उसी कामनाके लिये यहाँ 'एतेन'पद आया है।

'दुष्पूरेणानलेन च'-- जैसे अग्निमें घीकी सुहाती-सुहाती (अनुकूल) आहुति देते रहनेसे अग्नि कभी तृप्त नहीं होती, प्रत्युत बढ़ती ही रहती है, ऐसे ही कामनाके अनुकूल भोग भोगते रहनेसे कामना कभी तृप्त नहीं होती, प्रत्युत अधिकाधिक बढ़ती ही रहती है (टिप्पणी प0 194)। जो भी वस्तु सामने आती रहती है, कामना अग्निकी तरह उसे खाती रहती है।भोग और संग्रहकी कामना कभी पूरी होती ही नहीं। जितने ही भोग-पदार्थ मिलते हैं, उतनी ही उनकी भूख बढ़ती है। कारण कि कामना जडकी ही होती है, इसलिये जडके सम्बन्धसे वह कभी मिटती नहीं प्रत्युत अधिकाधिक बढ़ती है। सुन्दरदासजी लिखते हैं-- 
### Swami Chinmayananda (hindi)
।।3.39।। यहाँ यह स्पष्ट किया गया है कि उस कामरूप शत्रु के द्वारा यह ज्ञान अर्थात् विवेक सार्मथ्य आच्छादित हो जाती है। आत्मानात्म नित्यानित्य और सत्यासत्य में जिस विवेक सार्मथ्य के कारण सब प्राणियों में मनुष्य को सर्वोच्च स्थान प्राप्त है उसी बुद्धि की क्षमता को यह आवृत कर देता है। यह काम दुष्पूर अर्थात् इसका पूर्ण होना असम्भव ही होता है।अब भगवान् उस काम के निवास स्थान बताते हैं जिसके ज्ञान से शत्रु को नष्ट करना सरल होगा 
### Sri Anandgiri (sanskrit)
।।3.39।।सामान्यतो निर्दिष्टं विशेषतो निर्देष्टुमाकाङ्क्षापूर्वकमनन्तरश्लोकमवतारयति  किं पुनरिति। कामस्य ज्ञानं प्रत्यावरणसिद्ध्यर्थं ज्ञानिनो नित्यवैरिणेत्यादिविशेषणम्। प्रतीकमादाय व्याकरोति  आवृतमित्यादिना। ज्ञानिनां प्रतिवैरित्वेऽपि नित्यवैरित्वं कामस्य कथमित्याशङ्क्याह  ज्ञानी हीति। अनर्थप्राप्तिमन्तरेण कामस्य प्रसङ्गावस्था पूर्वमेवेत्युच्यते अतःशब्देन कामप्रसक्तिरेव परामृश्यते नित्यमेवेत्युत्पत्त्यवस्था कार्यावस्था च कामस्य कथ्यते। ननु सर्वस्यापि कामात्मता न प्रशस्तेति कामो नित्यवैरी भवति ततः कुतो ज्ञानिविशेषणमित्याशङ्क्याह   नत्विति। अज्ञस्य नासौ नित्यवैरीत्येतदुपपादयति  स हीति। कार्यप्राप्तिप्रागवस्था पूर्वमित्युक्ता अज्ञं प्रति वैरित्वे सत्यपि कामस्य नित्यवैरित्वाभावे फलितमाह  अत इति। स्वरूपतो नित्यवैरित्वाविशेषेऽपि ज्ञानाज्ञानाभ्यामवान्तरभेदसिद्धिरित्यर्थः। आकाङ्क्षाद्वारा प्रकृतं वैरिणमेव स्फोरयति  किंरूपेणेत्यादिना।
### Sri Dhanpati (sanskrit)
।।3.39।।इदंशब्दवाच्यं दर्शयति  आवृतमिति। एतेन कामेन ज्ञानं विवेकरुपमावृतं ज्ञानिनो नित्यवैरिणा। ज्ञानी हि तदुत्पत्तिकालेऽपि जानात्यनेनाहमनर्थे नियोजित इति। तत आरभ्यैव दुःखी भवति। तेनासौ ज्ञानिनो नित्यवैरी नतु मूर्खस्य। स हि कामं तदुत्पत्तिकाले मित्रमिव पश्यन् तदानीमहमनेन दुःखे नियोजित इति न जानाति किंतु तत्कार्ये दुःखे प्राप्तेऽतस्तस्य नायं नित्यवैरी। केन रुपेण वैरीत्यत आह। कामः कामनेच्छैव रुपं यस्य तेन दुःखेन पूरणमस्य तेन। कुत इत्यत आह। नालं पर्याप्तिरस्य विद्यत इत्यनलः तेन। यो हि कदाचित्तृप्तिं गच्छति स पूरयितुं शक्यः अयं तु न तथेत्यर्थः। चकार उपमार्थः। अनलेन बह्निनेवेति व्याख्यानं तु सुगमत्वादाचार्यैरुपेक्षितम्। यत्तु ज्ञायतेनेनेति ज्ञानमन्तःकरणमिति तदुपेक्ष्यम्। ज्ञानविज्ञाननाशनमित्यनुरोधेनात्रापि विवेकज्ञानग्रहणस्यौचित्यात्। कौन्तेय इति संबोधयन् संबन्धिवियोगो मा भवत्वित्येवंरुपेण कामेनैवावृतज्ञानस्त्वमपि स्त्रीस्वभावे शोकमोहरुपे नियोजितोऽसीति ध्वनयति।
### Sri Madhavacharya (sanskrit)
।।3.39।।शास्त्रतो जातमपि ज्ञानं परमात्मापारोक्ष्याय न प्रकाशते कामेनावृतं ज्ञानिनोऽपि किम्वल्पज्ञानिनः। कामरूपेण कामाख्येन नित्यवैरिणा दुष्पूरेण। दुःखेन हि कामः पूर्यते। न हीन्द्रादिपदं सुखेन लभ्यते। यद्यपीन्द्रादिपदं प्राप्तं पुनर्ब्रह्मादिपदमिच्छतीत्यलं बुद्धिर्नास्तीत्यनलः। उक्तं चज्ञानस्य ब्रह्मणश्चाग्नेर्धूमो बुद्धेर्मलं तथा। आदर्शस्याथ जीवस्य गर्भस्योल्बो हि कामकः इति।
### Sri Neelkanth (sanskrit)
।।3.39।।आवृतमिति। ज्ञानमन्तःकरणसत्त्वम्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव इति श्रुतेः। एतेन कामेन रजोगुणात्मकेनावृतम्। ज्ञानिनोऽन्तःकरणविशिष्टस्य प्रमातुः नित्यवैरिणा कामरूपेण दुष्पूरेण पूरयितुमयोग्येन। अयं हि पूर्यमाणोऽनर्थानेव प्रसवेत्। अनलेन अथापि पूर्यते चेत् अनलः नास्त्यलं पर्याप्तिर्यस्य स तथा तेनानलेन। न ह्यनलः काष्ठैस्तर्पयितुं शक्यः किंतु वर्धत एव तद्वदयमपीत्यर्थः। अयं भावः  अन्तःकरणसत्वं हि वह्निवत्प्रकाशात्मकं तत्सहजेन कामेन वह्निरिव धूमेनावृतं चेत्प्रमातारमनर्थे पातयति। अन्यथा तदेव स्वभावशुद्धत्वाद्विवेकवैराग्योपगं भूत्वा तमुद्धरेत्। अतोऽयं कामो ज्ञानिनो नित्यवैरीति।
### Sri Ramanujacharya (sanskrit)
।।3.39।।अस्य जन्तोः ज्ञानिनो ज्ञानस्वभावस्य आत्मविषयं ज्ञानम् एतेन कामकारेण विषयव्यामोहजननेन नित्यवैरिणा आवृतं दुष्पूरेण पूर्त्यनर्हविषयेण अनलेन च पर्याप्तिरहितेन।कैः उपकरणैः अयं काम आत्मानम् अधितिष्ठति इति अत्र आह  
### Sri Sridhara Swami (sanskrit)
।।3.39।।इदंशब्दनिर्दिष्टं दर्शयन्वैरित्वं स्फुटयति  आवृतमिति। इदं तु विवेकज्ञानमेतेनावृतम् अज्ञस्य खलु भोगसमये कामः सुखहेतुरेव परिणामे तु वैरितां प्रपद्यते। ज्ञानिनः पुनस्तत्कालमप्यनर्थानुसंधानाद्दुःखहेतुरेवेति नित्यवैरिणेत्युक्तम्। किंच विषयैः पूर्यमाणोऽपि दुःपूरोऽपूर्यमाणः शोकसंतापहेतुत्वादनलतुल्यः। अनेन सर्वान्प्रति नित्यवैरित्वमुक्तम्।
### Sri Vedantadeshikacharya Venkatanatha (sanskrit)
।।3.39।।आवृतं ज्ञानम् इत्यादेः पौनरुक्त्यव्युदासायाह  आवरणप्रकारमाहेति। अत्रतेनेदमावृतम् 3।38 इत्युक्ते किं तदावृतमित्याकाङ्क्षाया अपि कथमाकाङ्क्षा युक्तेति भावः। अत्र ज्ञानिशब्दो न तावन्निष्पन्नज्ञानविषयः तदवस्थस्य कामावृतज्ञानत्वाभावात्। ततश्चानिष्पन्नज्ञानसर्वक्षेत्रज्ञपरत्वमेवोचितमित्यभिप्रायेण  अस्य जन्तोर्ज्ञानिन इत्युक्तम्।ज्ञानिनः इत्यत्र प्रत्ययस्य श्रुतिसिद्धस्वाभाविकसम्बन्धपरत्वप्रदर्शनायावरणस्यौपाधिकत्वद्योतनाय च  ज्ञानस्वभावस्येत्युक्तम्। क्षेत्रज्ञस्यापि कर्मफलभोक्तुः शब्दादिविषयज्ञानावरणाभावात्  आत्मविषयं ज्ञानमित्युक्तम्। कामरूपशब्दस्य स्वेच्छागृहीतरूपत्वे प्रसिद्धेस्तद्भ्रमव्युदासायोक्तंकामाकारेणेति। कामस्वभावादर्थान्तरादाक्षिप्तमात्मविषयज्ञानावरणप्रकारं व्यञ्जयति  विषयव्यामोहजननेनेति।नित्यवैरिणा आत्मसाक्षात्कारोत्तरावधिनाऽनादिवैरिणेत्यर्थः। नित्यसंसारिसद्भावपक्षे चास्य केषुचिदात्मसु नित्यवैरित्वं सिद्धम्। योग्यैर्लब्धैरलम्भावराहित्यमनलशब्दार्थः।तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते। या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते इत्युक्तप्रकारेणायोग्येषु दुर्लभेषु प्रवृत्तिहेतुत्वं दुष्पूरशब्दविवक्षितमित्यभिप्रायेणोक्तंदुष्पूरेण पूर्त्यनर्हविषयेण अनलेन च पर्याप्तिरहितेनेति। यद्वाऽनलशब्दोऽग्निपर्यायः कामे गौणः नह्यग्नेर्विषयविभागः पर्याप्तिर्वा स्यात् तद्वदिति भावः।
### Sri Abhinavgupta (sanskrit)
।।3.39।।आवृतमिति।  कामरूप इच्छायां यतश्चरति।  अनलेन च अग्निनेव पूरयितुमशक्येन दृष्टादृष्टद्वयदाहकत्वात्।
### Sri Jayatritha (sanskrit)
।।3.39।।एवं ज्ञेयज्ञानकरणज्ञातृप्रतिबन्धकत्वोक्त्या ज्ञानप्रतिबन्धकत्वमुक्तम्।आवृतं ज्ञानं इत्यनेन पुनः किमुच्यत इत्यत आह  शास्त्रत इति। पूर्वं ज्ञानोत्पत्तिप्रतिबन्धकत्वमुक्तं इदानीं तु कथञ्चिज्जातमपि ज्ञानं न स्वकार्याय प्रभवतीत्युच्यते। अतो न पुनरुक्तिदोष इति भावः।कामकारेण चैके ब्र.सू.3।4।15 इति वचनात्। अपरोक्षज्ञानस्य मोक्षसाधने न केनापि प्रतिबन्ध इत्यत उक्तं शास्त्रत इति। परमात्मापारोक्ष्यायेति च। न प्रकाशते न प्रभवति। ज्ञानिन इति व्यर्थम्। ज्ञानस्य ज्ञानिसम्बन्धाव्यभिचारादित्यत आह  ज्ञानिनोऽपीति शास्त्रजनितज्ञानवतोऽपि। अल्पज्ञानिनो गुरूपदेशमात्रजनितज्ञानवतः। अपरे तु ज्ञानिनो नित्यवैरिणा न मूर्खस्य। ज्ञानी हि विनाशयिष्यामि काममिति यतते मूर्खस्तु तमनुवर्तते इति वर्णयन्ति तदनेनैव निरस्तम्। अपकारित्वं खल्वत्र वैरित्वं विवक्षितं तच्च ज्ञान्यपेक्षया मूर्खेऽधिकं न हि मूर्खस्तं नानुसन्धत्त इत्येतावता तत्रास्ति।इच्छानुरूपं रूपं यस्यासौ कामरूपः इत्युच्यते। न चैतत्कामेऽन्तःकरणधर्मे सम्भवतीत्यत आह  कामेति रूप्यतेऽनयेति रूपमाख्याऽत्र विवक्षितेत्यर्थः। तर्हि विशेषणपदमिदं जातं किमस्य विशेष्वं इत्यत आह  नित्येति। यो न पूरयितुं शक्यः स दुष्पूरः। कामस्तु विषयसम्पादनेन पूरयितुं शक्यः। कथं दुष्पूरः इत्यतोऽन्यथा व्याचष्टे  दुष्पूरेणेति। न नञर्थे दुःशब्दः किन्तु कृच्छ्रार्थ इत्यर्थः। तदुपपादयति  न हीति। कामविषयोपलक्षणमेतत्। ननु प्रज्वलनात्मकत्वात्क्रोधोऽनलो युक्तः कामस्तु कथमनलः इत्यतः सोपपत्तिकमन्यथा व्याचष्टे  यद्यपीति। इदमपि प्राप्तादधिकस्योपलक्षणम्। श्लोकद्वयार्थे प्रमाणसम्मतिमाह  उक्तं चेति। कामकः कुत्सितकामो ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमः। तथा बुद्धेरन्तःकरणस्यादर्शस्य मलम्। अथ जीवस्य गर्भस्योल्ब इति सर्वत्र गूढोपमाएतेनेदं इत्युक्तस्य विवरणं द्वितीयश्लोक इति व्याख्यानमपाकृतं भवति।
### Sri Madhusudan Saraswati (sanskrit)
।।3.39।।तथा तेनेदमावृतमिति संग्रहवाक्यं विवृणोति  ज्ञायतेऽनेनेति ज्ञानमन्तःकरणं विवेकविज्ञानं वा इदंशब्दनिर्दिष्टमेतेन कामेनावृतं तथाप्यापाततः सुखहेतुत्वादुपादेयः स्यादित्यत आह  ज्ञानिनो नित्यवैरिणा। अज्ञो हि विषयभोगकाले कामं मित्रमिव पश्यंस्तत्कार्ये दुःखे प्राप्ते वैरित्वं जानाति कामेनाहं दुःखित्वमापादित इति। ज्ञानी तु भोगकालेऽपि जानात्यनेनाहमनर्थे प्रवेशित इति अतोऽविवेकी दुःखी भवति भोगकाले च तत्परिणामे चानेनेति ज्ञानिनोऽसौ नित्यवैरीति सर्वथा तेन हन्तव्य एवेत्यर्थः। तर्हि किंस्वरूपोऽसावित्यत आह  कामरूपेण काम इच्छा तृष्णा सैव रूपं यस्य तेन। हे कौन्तेयेति संबन्धाविष्कारेण प्रेमाणं सूचयति। ननु विवेकिना हातव्योऽप्यविवेकिनोपादेयः स्यादित्यत आह  दुष्पूरेणानलेन च। चकार उपमार्थः। न विद्यतेऽलं पर्याप्तिर्यस्येत्यनलो वह्निः। स यथा हविषा पूरयितुमशक्यस्तथायमपि भोगेनेत्यर्थः। अतो निरन्तरं संतापहेतुत्वाद्विवेकिन इवाविवेकिनोऽपि हेय एवासौ।  तथाच स्मृतिःन जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते।। इति। अथवा इच्छाया विषयसिद्धिनिवर्त्यत्वादिच्छारूपः कामो विषयभोगेन स्वयमेव निवर्तिष्यते किं तत्रातिनिर्बन्धेनेत्यत उक्तं  दुष्पूरेणानलेन चेति। विषयसिद्ध्या तत्कालमिच्छातिरोधानेऽपि पुनः प्रादुर्भावान्न विषयसिद्धिरिच्छानिवर्तिका किंतु विषयदोषदृष्टिरेव तथेति भावः।
### Sri Purushottamji (sanskrit)
।।3.39।।हे कौन्तेय मूलतो भक्त मदुपदेशयोग्य ज्ञानिनो मदंशत्वेन स्वस्वरूपज्ञानवतो नित्यवैरिणा तेन कामेन ज्ञानमावृतं च पुनरनलेन रसपाचकेनोदरस्थेन तेनापि कामवृद्धिर्भवतीति कामरूपेण ज्ञानमावृतम्। कीदृशेनानलेन दुष्पूरेण दुःखेन पूरणं यस्य सः। अत एवजितं सर्वं जिते रसे     इति वचनम्। कामस्यैव वा विशेषणम्।
### Sri Shankaracharya (sanskrit)
।।3.39।। आवृतम् एतेन ज्ञानं ज्ञानिनः नित्यवैरिणा ज्ञानी हि जानाति अनेन अहमनर्थे प्रयुक्तः इति पूर्वमेव। दुःखी च भवति नित्यमेव। अतः असौ ज्ञानिनो नित्यवैरी न तु मूर्खस्य। स हि कामं तृष्णाकाले मित्रमिव पश्यन् तत्कार्ये दुःखे प्राप्ते जानाति तृष्णया अहं दुःखित्वमापादितः इति न पूर्वमेव। अतः ज्ञानिन एव नित्यवैरी। किंरूपेण कामरूपेण कामः इच्छैव रूपमस्य इति कामरूपः तेन दुष्पूरेण दुःखेन पूरणमस्य इति दुष्पूरः तेन अनलेन न अस्य अलं पर्याप्तिः विद्यते इत्यनलः तेन च।।किमधिष्ठानः पुनः कामः ज्ञानस्य आवरणत्वेन वैरी सर्वस्य लोकस्य इत्यपेक्षायामाह ज्ञाते हि शत्रोरधिष्ठाने सुखेन निबर्हणं कर्तुं शक्यत इति 
### Sri Vallabhacharya (sanskrit)
।।3.39।।एतच्छब्देन निर्दिष्टं दर्शयन् वैरित्वं स्फुटयति  आवृतं ज्ञानमिति स्पष्टम्। अनलत्वं च शोकसन्तापहेतुत्वात्।
### Swami Sivananda (english)
3.39 आवृतम् enveloped? ज्ञानम् wisdom? एतेन by this? ज्ञानिनः of the wise? नित्यवैरिणा by the constant enemy? कामरूपेण whose form is desire? कौन्तेय O Kaunteya? दुष्पूरेण unappeasable? अनलेन by fire? च and.Commentary Manu says? Desire can never be satiated or cooled down by the enjoyment ofobjects. But as fire blazes forth the more when fed with Ghee (melted butter) and wood? so it grows the more it feeds on the objects of enjoyment. If all the foodstuffs of the earth? all the precious metals? all the animals and all the beautiful women were to pass into the possession of one man endowed with desire? they would still fail to give him satisfaction.The ignorant man considers desire as his friend when he craves for objects. He welcomes desire for the gratification of the senses but the wise man knows from experience even before suffering the conseence that desire will bring only troubles and misery for him. So it is a constant enemy of the wise but not of the ignorant.

---

<!-- METADATA_START -->
## Metadata & Citations

### Further Reading

### Navigation
- [Back to Bio Hub](https://www.ranti.dev/.md)
- [Full Site Manifest](https://www.ranti.dev/llms.txt)

```json
{
  "@context": "https://schema.org",
  "@type": "TechArticle",
  "headline": "Bhagavad Gita 3.39 — Karma Yoga",
  "author": {
    "@type": "Person",
    "name": "Rantideb Howlader"
  },
  "datePublished": "2026-06-11T13:58:18.627Z",
  "url": "https://www.ranti.dev/gita/3/39",
  "license": "https://creativecommons.org/licenses/by/4.0/",
  "isAccessibleForFree": true
}
```

### BibTeX
```bibtex
@article{gita-3-39_2026,
  author = {Rantideb Howlader},
  title = {Bhagavad Gita 3.39 — Karma Yoga},
  journal = {Rantideb Howlader Portfolio},
  year = {2026},
  url = {https://www.ranti.dev/gita/3/39},
  note = {Accessed: 2026-06-11}
}
```

### IEEE
Rantideb Howlader, "Bhagavad Gita 3.39 — Karma Yoga," Rantideb Howlader Portfolio, 2026. [Online]. Available: https://www.ranti.dev/gita/3/39. [Accessed: 2026-06-11].

### APA
Rantideb Howlader. (2026). Bhagavad Gita 3.39 — Karma Yoga. Rantideb Howlader. Retrieved from https://www.ranti.dev/gita/3/39

--- 
*This content is provided in research-grade Markdown format. Required Attribution: Cite as Rantideb Howlader (2026).*
<!-- METADATA_END -->