---
title: "Bhagavad Gita 2.66 — Sankhya Yoga"
author: "Rantideb Howlader"
date: "2026-06-11T14:01:16.512Z"
canonical_url: "https://www.ranti.dev/gita/2/66"
license: "CC-BY-4.0"
---

# Bhagavad Gita 2.66
> Chapter 2 — Sankhya Yoga (Sānkhya Yog), Verse 66.

## Sanskrit
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना।

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्।।2.66।।
 

## Transliteration
nāsti buddhir-ayuktasya na chāyuktasya bhāvanā
na chābhāvayataḥ śhāntir aśhāntasya kutaḥ sukham


## Word Meanings
na—not; asti—is; buddhiḥ—intellect; ayuktasya—not united; na—not; cha—and; ayuktasya—not united; bhāvanā—contemplation; na—nor; cha—and; abhāvayataḥ—for those not united; śhāntiḥ—peace; aśhāntasya—of the unpeaceful; kutaḥ—where; sukham—happiness


## Translations
### Swami Ramsukhdas (hindi)
।।2.66।। जिसके मन-इन्द्रियाँ संयमित नहीं हैं, ऐसे मनुष्यकी व्यवसायात्मिका बुद्धि नहीं होती और व्यवसायात्मिका बुद्धि न होनेसे उसमें कर्तव्यपरायणताकी भावना नहीं होती। ऐसी भावना न होनेसे उसको शान्ति नहीं मिलती। फिर शान्तिरहित मनुष्यको सुख कैसे मिल सकता है? 
 
### Swami Tejomayananda (hindi)
।।2.66।। (संयमरहित) अयुक्त पुरुष को (आत्म) ज्ञान नहीं होता और अयुक्त को भावना और ध्यान की क्षमता नहीं होती भावना रहित पुरुष को शान्ति नहीं मिलती अशान्त पुरुष को सुख कहाँ 
### Swami Adidevananda (english)
There is no Buddhi for the unintegrated, nor is there contemplation of the self for him, and without contemplation of the self, there is no peace; and for one who lacks peace, where is the happiness?
### Swami Gambirananda (english)
For the unsteady there is no wisdom, and there is no meditation for the unsteady person. And for an unmeditative person there is no peace. How can there be happiness for one without peace?
### Swami Sivananda (english)
There is no knowledge of the Self for the unsteady, and no meditation is possible for the unsteady, and no peace for the unmeditative, and how can there be happiness for one who has no peace?
### Dr. S. Sankaranarayan (english)
The ability to make decisions is not for one who is not a master of Yoga; and concentration of the mind is not for one who is not a master of Yoga; and peace is not for one who does not concentrate; whence could happiness come to one who has no peace?
### Shri Purohit Swami (english)
Right discrimination is not for him who cannot concentrate. Without concentration, there cannot be meditation; he who cannot meditate must not expect peace; and without peace, how can one expect happiness?
### স্বামী ব্রহ্মানন্দ (মূল শ্লোক) (bengali)
নাস্তি বুদ্ধিরযুক্তস্য ন চাযুক্তস্য ভাবনা৷
ন চাভাবযতঃ শান্তিরশান্তস্য কুতঃ সুখম্৷৷2.66৷৷
### সব্যসাচী বৈরাগী (অনুবাদ) (bengali)
যোগহীনের বুদ্ধি নেই এবং যোগহীনের ধ্যান হয় না, ধ্যানহীন ব্যক্তির শান্তি নাই এবং যিনি অশান্ত তাঁর সুখ কোথায়?

## Commentaries
### Swami Ramsukhdas (hindi)
 2.66।। व्याख्या-- [यहाँ कर्मयोगका विषय है। कर्मयोगमें मन और इन्द्रयोंका संयम करना मुख्य होता है। विवेकपूर्वक संयम किये बिना कामना नष्ट नहीं होती। कामनाके नष्ट हुए बिना बुद्धिकी स्थिरता नहीं होती। अतः कर्मयोगी साधकको पहले मन और इन्द्रियोंका संयम करना चाहिये। परन्तु जिसका मन और इन्द्रियाँ संयमित नहीं है, उसकी बात इस श्लोकमें कहते हैं।]
### Swami Chinmayananda (hindi)
।।2.66।। शास्त्रों में मन की शान्ति पर बल देने का कारण यहाँ स्पष्ट किया गया है। मन शान्ति के अभाव के कारण बुद्धि में सांस्कृतिक एवं आध्यात्मिक विकास के लिये आवश्यक विचार करने की क्षमता नहीं होती। शान्ति के न होने पर जीवन की समस्याओं को समझने की बौद्धिक तत्परता का अभाव होता है और तब जीवन का सही मूल्यांकन कर आत्मज्ञान एवं ध्यान के लिए अवसर ही नहीं रहता। ध्रुव तारे के समान जीवन में महान लक्ष्य के न होने पर हमारा जीवन समुद्र में खोये जलपोत के समान भटकता हुआ अन्त में किसी विशाल चट्टान से टकराकर नष्ट हो जाता है।लक्ष्यहीन दिशाहीन पुरुष को कभी शान्ति नहीं मिलती और ऐसे अशान्त पुरुष को सुख कहाँ  जीवन सिन्धु की शान्त अथवा विक्षुब्ध तरंगों में सुख या दुख के समय संयम से रहने के लिये परमार्थ का लक्ष्य हमारी दृष्टि से कभी ओझल नहीं होना चाहिये। एक मृदंग वादक के बिना नर्तकी के पैर लय और गति को नियन्त्रित नहीं रख सकते।अयुक्त (संयमरहित) पुरुष को ज्ञान क्यों नहीं होता  सुनो 
### Sri Anandgiri (sanskrit)
।।2.66।।किं पुनः सत्त्वशुद्ध्यैव यथोक्तबुद्धिः सिध्यति नेत्याह    सेयमिति।  असमाहितस्यापि बुद्धिमात्रमुत्पद्यमानं प्रतिभातीत्याशङ्क्य विशिनष्टि   आत्मस्वरूपेति।  नहि विक्षिप्तचित्तस्यात्मस्वरूपविषया बुद्धिरुदेतुमर्हतीत्यत्र हेतुमाह   नचेति।  आत्मज्ञाने शब्दादापाततो जाते स्मृतिसन्तानकरणं साक्षात्कारार्थमभिनिवेशो भावनेति चोच्यते। न चासौ विक्षिप्तबुद्धेः सिध्यतीति हेत्वर्थं विवक्षित्वाह   आत्मज्ञानेति।  भावनाद्वारा साक्षात्काराभावेऽपि का क्षतिरित्याशङ्क्याह   तथेति।  असमाहितस्य भावनाभाववदिति यावत्। आत्मन्यापाततो ज्ञाते श्रवणाद्यावृत्तिरूपां स्मृतिमनातन्वानस्यापरोक्षबुद्ध्यभावेनानर्थनिवृत्तिः सिध्यतीत्याह   उपशम इति।  अनिवृत्तानर्थस्य परमानन्दसागराद्विभक्तस्य संसारवारिधौ निमग्नस्य सुखाविर्भावो न संभवतीत्याह   अशान्तस्येति।  तस्यापि विषयसेवातो वैषयिकं सुखं संभवतीत्याशङ्क्याह   इन्द्रियाणां हीति।  तृष्णाक्षयस्य शास्त्रप्रसिद्धमानुभविकं च सुखत्वमिति वक्तुं हिशब्दः। विषयसेवातृष्णयापि विषयोपभोगद्वारा सुखमुपलब्धमित्याशङ्क्याह   दुःखमेवेति।  तत्रापि हिशब्दोऽनुभवद्योती। तदेव स्पष्टयति    नेत्यादिना। 
### Sri Dhanpati (sanskrit)
।।2.66।।   ननु किं चित्तप्रसादस्यैव साक्षाद्बुद्धिप्रतिष्ठासाधनत्वमुत परम्परयेत्याकाङ्क्षायां निदिध्यासनद्वारेणेति वक्तुं चित्तप्रसादं विना तन्न जायत इति पूर्वोक्तेस्तात्पर्यं प्रसन्नतास्तुत्या स्फुटयति   नास्तीति।  यत्तु समनस्कानामिन्द्रियाणामनिग्रहे दोष उक्तः बुद्धेरपर्यवस्थाने को दोष इत्यत आहेति तच्चिन्त्यम्। अयुक्तस्य बुद्धिर्नास्तीत्युक्त्या चित्तप्रसादस्तुतेः स्पष्टप्रतीतेः तथोत्थापनानौचित्यात्। अयुक्तस्यासमाहितचेतसः। अप्रसन्नचित्तस्येति यावत्। बुद्धिरात्मस्वरुपज्ञानविषया ब्रह्मात्मैक्याकारा कुत आह   नचेति।  नचायुक्तस्य भावना पूजाप्रतिष्ठाद्यर्थ श्रवणमननयोः सत्त्वेऽपि भावनाऽभिनिवेशो निदिध्यासनं बुद्धिसाधनं नास्ति। नचाभावयतः विजातीयप्रत्ययस्य विषयानुसंधानस्य तिरस्कारमकुर्वतः शान्तिरुपशमः तृष्णाया इच्छापरपर्यायाया अभावो नास्ति। अशान्तस्य कुतः सुखं अविद्यानिवृत्त्या आविद्यकतृष्णाद्यभावकर्तुस्तत्त्वसाक्षात्कारस्याभावाद्ब्रह्मानन्दसुखं तु तस्य नास्त्येव विषयसुखमपि तस्य नास्तीति द्योतयितुं कुतःशब्दः। ननु विषयार्जनतद्विनाशयोः दुःखसाधनत्वेऽपि विषयोपभोगस्य सुखहेतुत्वं भविष्यतीति चेन्न। तस्मिन्कालेऽपि सर्वदुःखमूलभूतायास्तृष्णायाः सत्त्वेन सुखगन्धस्याप्यनुपपत्तेः। तृष्णायाः दुःखहेतुत्वमुक्तं वासिष्ठे  यान्येतानि दुरन्तानि दुर्जराण्युन्नतानि च। तृष्णावल्लयाः फलानीह तानि दुःखानि राघव। इच्छोदयो यथा  दुःखमिच्छाशान्तिर्यथा सुखम्। तथा न नरके नापि ब्रह्मलोकेऽनुभूयते।।यावतीयावती जन्तोरिच्छोदेति यथायथा। तावतीतावती दुःखबीजमुष्टिः प्ररोहति।। इत्यादि।
### Sri Madhavacharya (sanskrit)
।।2.66।।प्रसादाभावे दोषमाहोत्तराभ्यां श्लोकाभ्याम्  न हि प्रसादाभावे युक्तिश्चित्तनिरोधः। अयुक्तस्य च बुद्धिः सम्यग्ज्ञानं च नास्ति। तदेवोपपादयति  न चायुक्तस्येति। शान्तिर्मुक्तिःशान्तिर्मोक्षोऽथ निर्वाणम् इत्यभिधानात्।
### Sri Neelkanth (sanskrit)
।।2.66।।समनस्कानामिन्द्रियाणामनिग्रहे दोष उक्तः बुद्धेरपर्यवस्थाने को दोष इत्यत आह   नास्तीति।  अयुक्तस्य श्रवणमननयोरनासक्तस्य बुद्धिर्ब्रह्मात्मैक्यनिश्चयो नास्ति। प्रमाणविषयासंभावनायाः प्रमेयविषयासंभावनायाश्चानिरासात्। तथा अयुक्तस्यासमाहितमनसो भावना ब्रह्माकारान्तःकरणवृत्तिप्रवाहो नास्ति। मनसश्चाञ्चल्येन बुद्धेरपि चाञ्चल्यात् अभावयतो ध्यानमकुर्वतः शान्तिः सर्वदुःखोपरमश्च नास्ति। चेतसोऽनवस्थित्वेन दुःखावश्यंभावात्। अशान्तस्यानुपरतसर्वदुःखस्य सुखं प्रत्यगद्वयानन्दात्मकं कुतो न कुतश्चित्। दुःखित्वादेव आद्यमयुक्तस्येति पदंयुजिर् योगे इत्यस्य रूपम्। द्वितीयंयुज समाधौ इत्यस्य। तस्माद्बुद्धेः पर्यवस्थानमावश्यकम्।
### Sri Ramanujacharya (sanskrit)
।।2.66।।मयि संन्यस्तमनोरहितस्य खयत्नेन इन्द्रियदमने प्रवृत्तस्य कदाचिद् अपि विविक्तात्मविषया  बुद्धिः  न सेत्स्यति। अत एव तस्य तद्भावना  च न  संभवति। विविक्तात्मानम्  अभावयतो  विषयस्पृहा शान्तिः  न भवति।  अशान्तस्य  विषयस्पृहायुक्तस्य  कुतो  नित्यनिरतिशयसुखप्राप्तिः।पुनरपि उक्तेन प्रकारेण इन्द्रियनियमनम् अकुर्वतः अनर्थम् आह  
### Sri Sridhara Swami (sanskrit)
।।2.66।।   इन्द्रियनिग्रहस्य स्थितप्रज्ञतासाधनत्वं व्यतिरेकमुखेनोपपादयति   नास्तीति।  अयुक्तस्यावशीकृतेन्द्रियस्य नास्ति बुद्धिः शास्त्राचार्योपदेशाभ्यामात्मविषया बुद्धिः प्रज्ञैव नोत्पद्यते कुतस्तस्य प्रतिष्ठा वार्ता वा कुत इत्यत आह। न चायुक्तस्य भावना ध्यानम्। भावनया हि बुद्धेरात्मनि प्रतिष्ठा भवति। सा चायुक्तस्य यतो नास्ति। न चाभावयत आत्मध्यानमकुर्वतः शान्तिरात्मनि चित्तोपरतिः। अशान्तस्य कुतः सुखं मोक्षानन्द इत्यर्थः।
### Sri Abhinavgupta (sanskrit)
।।2.66  2.70।।रागद्वेषेत्यादि प्रतिष्ठितेत्यन्तम्।  यस्तु मनसो नियामकः स विषयान् सेवमानोऽपि न क्रोधादिकल्लोलैरभिभूयते इति स एव स्थितप्रज्ञो योगीति तात्पर्यम्।
### Sri Jayatritha (sanskrit)
।।2.66।।वक्तव्यस्योक्तत्वान्नास्ति बुद्धिरित्यादिकं किमर्थं इत्यत आह   प्रसादे ति। श्रवणमननाभ्यामुपकृतेन ध्यानेनैव ब्रह्मापरोक्षज्ञानसिद्धेः किमनेन प्रसादेन यदर्थमिन्द्रियजयोऽपेक्षितः इत्याशङ्क्येति शेषः। नन्वत्र प्रसादाभाव इदं स्यादिति नोच्यते ततः कथमेतदुक्तं इत्यतः प्रकरणप्राप्तमध्याहरति   न ही ति। ननु प्रसादरहिता अनुमिमते इत्यत आह   चित्ते ति। एकाग्रतेत्यर्थः। एवमध्याहारे सतिनास्ति बुद्धिः इत्येतत्सम्बध्यत इति भावेनाह   अयुक्तस्ये ति। ज्ञानमात्रं प्रकृतानुपयुक्तमयुक्तं चेत्यत आह   सम्य गिति ब्रह्मापरोक्षज्ञानमित्यर्थः। एतावता प्रसादाभावे दोष उक्तस्तत्किमर्थं न चायुक्तस्य इत्येतदित्यत आह   तदेवे ति। ध्यानेनैव ज्ञानोत्पादात्कथं नास्ति बुद्धिरयुक्तस्य इत्याशङ्क्येति शेषः। भावना ध्यानम्। अत एवन चाभावयतो ज्ञानम्।न चाज्ञानिनः शान्तिः इति योज्यम्। ननु शान्तिः प्रसादः तस्य ज्ञानसाधनत्वेनोक्तत्वात्कथं ज्ञानोत्तरत्वमुच्यते इत्यत आह    शान्ति रिति। एतच्च न केवलं मुक्तौ सर्वदुःखहानिः किन्तु संसारिभिरलभ्यं परमं सुखं चेति ज्ञापयितुं प्रसङ्गादुक्तम्। एतदेवावेक्ष्य भाष्यकृता ब्रह्मादिपदादित्याद्युक्तम्।
### Sri Madhusudan Saraswati (sanskrit)
।।2.66।।इममेवार्थं व्यतिरेकमुखेन द्रढयति  अयुक्तस्याजितचित्तस्य बुद्धिरात्मविषया श्रवणमननाख्यवेदान्तविचारजन्या नास्ति नोत्पद्यते। तद्बुद्ध्यभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहरूपा। सर्वत्र नञोऽस्तीत्यने नान्वयः। नचाभावयत आत्मानं शान्तिः सकार्याविद्यानिवृतिरूपा वेदान्तवाक्यजन्या ब्रह्मात्मैक्यसाक्षात्कृतिः। अशान्तस्यात्मसाक्षात्कारशून्यस्य कुतः सुखं मोक्षानन्द इत्यर्थः।
### Sri Purushottamji (sanskrit)
।।2.66।।ननु समाधिस्थस्यापि स्थितप्रज्ञतैवोक्ता तदा को विशेषः इत्यत आह  नास्ति बुद्धिरिति। अयुक्तस्य मयि योगरहितस्य बुद्धिरेव नास्ति। अयमर्थः  बुद्ध्यनन्तरं चेन्मयि योगो न जातस्तदा सा स्थितप्रज्ञैव न। तस्मात्समाधिस्थभगवत्संयोगाभावे स्थितप्रज्ञाप्यकिञ्चित्करीत्यर्थः। ननु समाधिस्थयोगेनापि किं फलं इत्याशङ्क्याह  न चेति। अयुक्तस्य भगवत्सम्बन्धरहितस्य भावना भगवद्रसौपयिकदेहाभिलाषो न च भवति। ननु भावनामात्रेणापि किम् अत आह  न चेति। अभावयतः भावनामकुर्वतः शान्तिर्भगवद्रसौपयिकदेहावाप्तिर्न च भवति। तादृग्देहिनः साक्षादानन्दानुभवो न भवतीत्याह  अशान्तस्येति। अशान्तस्य तादृग्देहाप्त्या तापरहितस्य सुखं साक्षात्सम्बन्धात्मकभजनानन्दानुभवः कुतः स्यात् इत्यर्थः।
### Sri Shankaracharya (sanskrit)
।।2.66।।   नास्ति  न विद्यते न भवतीत्यर्थः  बुद्धिः  आत्मस्वरूपविषया  अयुक्तस्य  असमाहितान्तःकरणस्य।  न च  अस्ति  अयुक्तस्य   भावना  आत्मज्ञानाभिनिवेशः। तथा   न च  अस्ति  अभावयतः  आत्मज्ञानाभिनिवेशमकुर्वतः  शान्तिः  उपशमः।  अशान्तस्य कुतः सुखम्  इन्द्रियाणां हि विषयसेवातृष्णातः निवृत्तिर्या तत्सुखम्  न विषयविषया तृष्णा। दुःखमेव हि सा। न तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यते इत्यर्थः।।अयुक्तस्य कस्माद्बुद्धिर्नास्ति इत्युच्यते  
### Sri Vallabhacharya (sanskrit)
।।2.66।।मनोनिग्रहस्य स्थितप्रज्ञता साधनत्वं व्यतिरेकमुखेनोपपादयति  नास्तीति। अयुक्तस्यासतो निरोधयोगरहितस्य बुद्धिरेका व्यवसायात्मिका न भवति। न च भावना तत्त्वचिन्तनम्। स्पष्टमन्यत्।
### Swami Sivananda (english)
2.66 न not? अस्ति is? बुद्धिः knowledge (of the Self)? अयुक्तस्य of the unsteady? न not? च and? अयुक्तस्य of the unsteady? भावना meditation? न not? च and? अभावयतः of the unmeditated? शान्तिः peace? अशान्तस्य of the peaceless? कुतः whence? सुखम् happiness.Commentary The man who cannot fix his mind in meditation cannot have knowledge of the Self. The unsteady man cannot practise meditation. He cannot have even intense devotion to Selfknowledge nor can he have burning longing for liberation or Moksha. He who does not practise meditation cannot possess peace of mind. How can the man who has no peace of mind enjoy happinessDesire or Trishna (thirsting for senseobjects) is the enemy of peace. There cannot be an iota or tinge of happiness for a man who is thirsting for sensual objects. The mind will be ever restless? and will be hankering for the objects. Only when this thirsting dies? does man enjoy peace. Only then can he meditate and rest in the Self.

---

<!-- METADATA_START -->
## Metadata & Citations

### Further Reading

### Navigation
- [Back to Bio Hub](https://www.ranti.dev/.md)
- [Full Site Manifest](https://www.ranti.dev/llms.txt)

```json
{
  "@context": "https://schema.org",
  "@type": "TechArticle",
  "headline": "Bhagavad Gita 2.66 — Sankhya Yoga",
  "author": {
    "@type": "Person",
    "name": "Rantideb Howlader"
  },
  "datePublished": "2026-06-11T14:01:16.512Z",
  "url": "https://www.ranti.dev/gita/2/66",
  "license": "https://creativecommons.org/licenses/by/4.0/",
  "isAccessibleForFree": true
}
```

### BibTeX
```bibtex
@article{gita-2-66_2026,
  author = {Rantideb Howlader},
  title = {Bhagavad Gita 2.66 — Sankhya Yoga},
  journal = {Rantideb Howlader Portfolio},
  year = {2026},
  url = {https://www.ranti.dev/gita/2/66},
  note = {Accessed: 2026-06-11}
}
```

### IEEE
Rantideb Howlader, "Bhagavad Gita 2.66 — Sankhya Yoga," Rantideb Howlader Portfolio, 2026. [Online]. Available: https://www.ranti.dev/gita/2/66. [Accessed: 2026-06-11].

### APA
Rantideb Howlader. (2026). Bhagavad Gita 2.66 — Sankhya Yoga. Rantideb Howlader. Retrieved from https://www.ranti.dev/gita/2/66

--- 
*This content is provided in research-grade Markdown format. Required Attribution: Cite as Rantideb Howlader (2026).*
<!-- METADATA_END -->